Sarga 21: Hanumān Consoles Tārā
हनुमदाश्वासनम्
hanumadāśvāsanam — word-by-word gloss for all 16 shlokas.
Jump to a shloka · 16 in this sarga
ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः ।।4.21.1।।
Meaning
गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ।।4.21.2।।
Meaning
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे । कस्य को वानु शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ।।4.21.3।।
Meaning
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ।।4.21.4।।
Meaning
जानास्यनियतामेवं भूतानामागतिं गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ।।4.21.5।।
Meaning
यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च । वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ।।4.21.6।।
Meaning
यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ।।4.21.7।।
Meaning
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते ।।4.21.8।।
Meaning
ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ।।4.21.9।।
Meaning
सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् । राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ।।4.21.10।।
Meaning