Sarga 5: Friendship with Sugrīva

सुग्रीवसख्यम्

sugrīvasakhyam — word-by-word gloss for all 32 shlokas.

Page 1 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 5.1Word-by-word available

ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ ।।4.5.1।।

Meaning

Shloka 5.2Word-by-word available

अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ।।4.5.2।।

Meaning

Shloka 5.3Word-by-word available

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितश्चैव पितुर्निर्देशपारगः ।।4.5.3।।

Meaning

Shloka 5.4Word-by-word available

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः ।।4.5.4।।

Meaning

Shloka 5.5Word-by-word available

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ।।4.5.5।।

Meaning

Shloka 5.6Word-by-word available

तपसा सत्यवाक्येन वसुधा येन पालिता । स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ।।4.5.6।।

Meaning

Shloka 5.7Word-by-word available

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ।।4.5.7।।

Meaning

Shloka 5.8Word-by-word available

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः । भयं च राघवाद्घोरं प्रजहौ विगतज्वरः ।।4.5.8।।

Meaning

Shloka 5.9Word-by-word available

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ।।4.5.9।।

Meaning

Shloka 5.10Word-by-word available

भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ।।4.5.10।।

Meaning