Sarga 13: Salutation at the Saptajana Hermitage

सप्तजनाश्रमप्रणामः

saptajanāśramapraṇāmaḥ — word-by-word gloss for all 30 shlokas.

Jump to a shloka · 30 in this sarga

Page 1 of 330 shlokas in this sarga (verified max-across-sources)
Shloka 13.1Word-by-word available

ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सहसुग्रीवो वालिविक्रमपालिताम् ।।4.13.1।।

Meaning

Shloka 13.2Word-by-word available

समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ।।4.13.2।।

Meaning

Shloka 13.3Word-by-word available

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ।।4.13.3।।

Meaning

Shloka 13.4Word-by-word available

पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः । तारश्चैव महातेजा हरियूथपयूथपः ।।4.13.4।।

Meaning

Shloka 13.5Word-by-word available

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ।।4.13.5।।

Meaning

Shloka 13.6Word-by-word available

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ।।4.13.6।।

Meaning

Shloka 13.7Word-by-word available

वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुड्मलैः । शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ।।4.13.7।।

Meaning

Shloka 13.8Word-by-word available

कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ।।4.13.8।।

Meaning

Shloka 13.9Word-by-word available

मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् । चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान् ।।4.13.9।।

Meaning

Shloka 13.10Word-by-word available

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् । घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ।।4.13.10।।

Meaning