Sarga 8: The Vow to Slay Vālī

वालिवधप्रतिज्ञा

vālivadhapratijñā — word-by-word gloss for all 46 shlokas.

Page 1 of 546 shlokas in this sarga (verified max-across-sources)
Shloka 8.1Word-by-word available

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।।4.8.1।।

Meaning

Shloka 8.2Word-by-word available

सर्वथाहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सखा यस्य भवान्मम ।।4.8.2।।

Meaning

Shloka 8.3Word-by-word available

शक्यं खलु भवेद्राम सहायेन त्वयानघ । सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ।।4.8.3।।

Meaning

Shloka 8.4Word-by-word available

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ।।4.8.4।।

Meaning

Shloka 8.5Word-by-word available

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः । न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ।।4.8.5।।

Meaning

Shloka 8.6Word-by-word available

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ।।4.8.6।।

Meaning

Shloka 8.7Word-by-word available

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ।।4.8.7।।

Meaning

Shloka 8.8Word-by-word available

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ।।4.8.8।।

Meaning

Shloka 8.9Word-by-word available

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ।।4.8.9।।

Meaning

Shloka 8.10Word-by-word available

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ।।4.8.10।।

Meaning