Sarga 46: Sugrīva Tells of His Wanderings

भूमण्डलभ्रमणकथनम्

bhūmaṇḍalabhramaṇakathanam — word-by-word gloss for all 25 shlokas.

Jump to a shloka · 25 in this sarga

Page 1 of 325 shlokas in this sarga (verified max-across-sources)
Shloka 46.1Word-by-word available

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ।।4.46.1।।

Meaning

Shloka 46.2Word-by-word available

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ।।4.46.2।।

Meaning

Shloka 46.3Word-by-word available

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । परिकालयते वाली मलयं प्रति पर्वतम् ।।4.46.3।।

Meaning

Shloka 46.4Word-by-word available

तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तज्जिघांसया ।।4.46.4।।

Meaning

Shloka 46.5Word-by-word available

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् । न च निष्क्रमते वाली तदा संवत्सरे गते ।।4.46.5।।

Meaning

Shloka 46.6Word-by-word available

ततः क्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ।।4.46.6।।

Meaning

Shloka 46.7Word-by-word available

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतसङ्काशा बिलद्वारि मयावृता ।।4.46.7।।

Meaning

Shloka 46.8Word-by-word available

अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति । ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ।।4.46.8।।

Meaning

Shloka 46.9Word-by-word available

राज्यं च सुमहत्प्राप्तं तारया रुमया सह । मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ।।4.46.9।।

Meaning

Shloka 46.10Word-by-word available

आजगाम ततो वाली हत्वा तं दानवर्षभम् । ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ।।4.46.10।।

Meaning