Sarga 65: Each Declares His Strength

बलेयत्ताविष्करणम्

baleyattāviṣkaraṇam — word-by-word gloss for all 35 shlokas.

Page 1 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 65.1Word-by-word available

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः । स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ।।4.65.1।।

Meaning

Shloka 65.2Word-by-word available

गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ।।4.65.2।।

Meaning

Shloka 65.3Word-by-word available

आबभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ।।4.65.3।।

Meaning

Shloka 65.4Word-by-word available

गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ।।4.65.4।।

Meaning

Shloka 65.5Word-by-word available

शरभस्तानुवाचाथ वानरान् वानरर्षभः । चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ।।4.65.5।।

Meaning

Shloka 65.6Word-by-word available

वानरांस्तु महातेजा अब्रवीद्गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ।।4.65.6।।

Meaning

Shloka 65.7Word-by-word available

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे ।।4.65.7।।

Meaning

Shloka 65.8Word-by-word available

ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ।।4.65.8।।

Meaning

Shloka 65.9Word-by-word available

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् । अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ।।4.65.9।।

Meaning

Shloka 65.10Word-by-word available

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ।।4.65.10।।

Meaning