Sarga 35: Tārā Pacifies Lakṣmaṇa
तारासमाधानम्
tārāsamādhānam — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ।।4.35.1।।
Meaning
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ।।4.35.2।।
Meaning
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ।।4.35.3।।
Meaning
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ।।4.35.4।।
Meaning
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ।।4.35.5।।
Meaning
सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ।।4.35.6।।
Meaning
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ।।4.35.7।।
Meaning
स हि प्राप्तं न जानीते कालं कालविदां वरः । विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ।।4.35.8।।
Meaning
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ।।4.35.9।।
Meaning
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ।।4.35.10।।
Meaning