Sarga 39: The Army Encamps

सेनानिवेशः

senāniveśaḥ — word-by-word gloss for all 44 shlokas.

Page 1 of 544 shlokas in this sarga (verified max-across-sources)
Shloka 39.1Word-by-word available

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ।।4.39.1।।

Meaning

Shloka 39.2Word-by-word available

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्वचित् । आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ।।4.39.2।।

Meaning

Shloka 39.3Word-by-word available

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ।।4.39.3।।

Meaning

Shloka 39.4Word-by-word available

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ।।4.39.4।।

Meaning

Shloka 39.5Word-by-word available

त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ।।4.39.5।।

Meaning

Shloka 39.6Word-by-word available

जहारात्मविनाशाय वैदेहीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्रादो यथा शचीम् ।।4.39.6।।

Meaning

Shloka 39.7Word-by-word available

न चिरात्तं हनिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ।।4.39.7।।

Meaning

Shloka 39.8Word-by-word available

एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ।।4.39.8।।

Meaning

Shloka 39.9Word-by-word available

दिशः पर्याकुलाश्चासन् रजसा तेन मूर्छता । चचाल च मही सर्वा सशैलवनकानना ।।4.39.9।।

Meaning

Shloka 39.10Word-by-word available

ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः ।।4.39.10।।

Meaning