Sarga 50: Prahasta's Questions

प्रहस्तप्रश्नः

prahastapraśnaḥ — word-by-word gloss for all 19 shlokas.

Jump to a shloka · 19 in this sarga

Page 1 of 219 shlokas in this sarga (verified max-across-sources)
Shloka 50.1Word-by-word available

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । रोषेण महताविष्टो रावणो लोकरावणः ।।5.50.1।।

Meaning

Shloka 50.2Word-by-word available

शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत्साक्षादिहागतः ।।5.50.2।।

Meaning

Shloka 50.3Word-by-word available

येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा । सोऽयं वानरमूर्तिः स्यात्किंस्विद्बाणोऽपि वासुरः ।।5.50.3।।

Meaning

Shloka 50.4Word-by-word available

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् । कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ।।5.50.4।।

Meaning

Shloka 50.5Word-by-word available

दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ।।5.50.5।।

Meaning

Shloka 50.6Word-by-word available

मत्पुरीमप्रधृष्यां वागमने किं प्रयोजनम् । आयोधने वा किं कार्यं पृच्छ्यतामेष दुर्मतिः ।।5.50.6।।

Meaning

Shloka 50.7Word-by-word available

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।।5.50.7।।

Meaning

Shloka 50.8Word-by-word available

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् । तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।।5.50.8।।

Meaning

Shloka 50.9Word-by-word available

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।।5.50.9।।

Meaning

Shloka 50.10Word-by-word available

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा । न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।।5.50.10।।

Meaning