Sarga 2: Waiting for Nightfall
निशागमप्रतीक्षा
niśāgamapratīkṣā — word-by-word gloss for all 58 shlokas.
Jump to a shloka · 58 in this sarga
स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ।।5.2.1।।
Meaning
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ।।5.2.2।।
Meaning
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः । अनिःश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ।।5.2.3।।
Meaning
शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ।।5.2.4।।
Meaning
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवांल्लङ्कां लङ्घयित्वा महोदधिम् ।।5.2.5।।
Meaning
शाद्वलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ।।5.2.6।।
Meaning
शैलांश्च तरुसञ्छन्नान्वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ।।5.2.7।।
Meaning
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च । स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ।।5.2.8।।
Meaning
सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् । प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि ।।5.2.9।।
Meaning
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा । असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ।।5.2.10।।
Meaning