Sarga 54: The Burning of Laṅkā
लङ्कादाहः
laṅkādāhaḥ — word-by-word gloss for all 52 shlokas.
Jump to a shloka · 52 in this sarga
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।।5.54.1।।
Meaning
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।।5.54.2।।
Meaning
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः । बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।।5.54.3।।
Meaning
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् । अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः ।।5.54.4।।
Meaning
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।।5.54.5।।
Meaning
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः । भवनाग्रेषु लङ्काया विचचार महाकपिः ।।5.54.6।।
Meaning
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।।5.54.7।।
Meaning
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।।5.54.8।।
Meaning
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमानग्निं कालानलशिखोपमम् ।।5.54.9।।
Meaning
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महातेजाः सारणस्य च धीमतः ।।5.54.10।।
Meaning