Sarga 3: Laṅkā's Guardian Goddess Overcome
लङ्काधिदेवताविजयः
laṅkādhidevatāvijayaḥ — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
स लम्बशिखरे लम्बे लम्बतोयदसन्निभे । सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ।।5.3.1।।
Meaning
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ।।5.3.2।।
Meaning
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरोपमनिर्घोषां सागरानिलसेविताम् ।।5.3.3।।
Meaning
सुपुष्टबलसङ्घुष्टां यथैव विटपावतीम् । चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ।।5.3.4।।
Meaning
भुजगाचरितां गुप्तां शुभां भोगवतीमिव । तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ।।5.3.5।।
Meaning
मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् । शातकुम्भेन महता प्राकारेणाभिसंवृताम् ।।5.3.6।।
Meaning
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् । आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ।।5.3.7।।
Meaning
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः । जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ।।5.3.8।।
Meaning
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः । तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ।।5.3.9।।
Meaning
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः । चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ।।5.3.10।।
Meaning