Sarga 8: Puṣpaka Described
पुष्पकानुवर्णनम्
puṣpakānuvarṇanam — word-by-word gloss for all 8 shlokas.
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं बहुरत्नचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ।।5.8.1।।
Meaning
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गतं वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ।।5.8.2।।
Meaning
न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् ।।5.8.3।।
Meaning
तपःसमाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम् । अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ।।5.8.4।।
Meaning
मनः समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् । महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम् ।।5.8.5।।
Meaning
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् । मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ।।5.8.6।।
Meaning
वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः । विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ।।5.8.7।।
Meaning
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् । स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ।।5.8.8।।
Meaning