Sarga 33: Hanumān Begins to Speak with Jānakī
हनूमज्जानकीसंवादोपक्रमः
hanūmajjānakīsaṃvādopakramaḥ — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।।5.33.1।।
Meaning
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।।5.33.2।।
Meaning
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।।5.33.3।।
Meaning
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।।5.33.4।।
Meaning
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् । यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।।5.33.5।।
Meaning
का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ।।5.33.6।।
Meaning
किं नु चन्द्रमसा हीना पतिता विबुधालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ।।5.33.7।।
Meaning
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने । कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।।5.33.8।।
Meaning
वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती । को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।।5.33.9।।
Meaning
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि । रोदनादतिनिःश्वासाद्भूमिसंस्पर्शनादपि ।।5.33.10।।
Meaning