Sarga 46: The Five Generals Slain
सेनापतिपञ्चकवधः
senāpatipañcakavadhaḥ — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ।।5.46.1।।
Meaning
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् । प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ।।5.46.2।।
Meaning
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनुमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ।।5.46.3।।
Meaning
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।।5.46.4।।
Meaning
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् । कर्म चापि समाधेयं देशकालविरोधिनम् ।।5.46.5।।
Meaning
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।।5.46.6।।
Meaning
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् । सनागयक्षगन्धर्वा देवासुरमहर्षयः ।।5.46.7।।
Meaning
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः । तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः ।।5.46.8।।
Meaning
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् । नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।।5.46.9।।
Meaning
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः । वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।।5.46.10।।
Meaning