Sarga 14: Searching the Aśoka Grove
अशोकवनिकाविचयः
aśokavanikāvicayaḥ — word-by-word gloss for all 52 shlokas.
Jump to a shloka · 52 in this sarga
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ।।5.14.1।।
Meaning
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः । पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ।।5.14.2।।
Meaning
सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ।।5.14.3।।
Meaning
अथाम्रवणसञ्छन्नां लताशतसमावृताम् । ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ।।5.14.4।।
Meaning
स प्रविश्य विचित्रां तां विहगैरभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ।।5.14.5।।
Meaning
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान्कपिः ।।5.14.6।।
Meaning
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः । कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ।।5.14.7।।
Meaning
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले । मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ।।5.14.8।।
Meaning
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान्विहगान्बोधयामास वानरः ।।5.14.9।।
Meaning
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः । अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ।।5.14.10।।
Meaning