Sarga 30: Hanumān Weighs What to Do
हनूमत्कृत्याकृत्यविचिन्तनम्
hanūmatkṛtyākṛtyavicintanam — word-by-word gloss for all 44 shlokas.
Jump to a shloka · 44 in this sarga
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः । सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।।5.30.1।।
Meaning
अवेक्षमाणस्तां देवीं देवतामिव नन्दने । ततो बहुविधां चिन्तां चिन्तयामास वानरः ।।5.30.2।।
Meaning
यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।।5.30.3।।
Meaning
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढेन चरता तावदवेक्षितमिदं मया ।।5.30.4।।
Meaning
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता । राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।।5.30.5।।
Meaning
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ।।5.30.6।।
Meaning
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।।5.30.7।।
Meaning
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ।।5.30.8।।
Meaning
गते हि मयि तत्रेयं राजपुत्री यशस्विनी । परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।।5.30.9।।
Meaning
मया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।।5.30.10।।
Meaning