Sarga 59: Urging the Task Ahead

अनन्तकार्यप्ररोचनम्

anantakāryaprarocanam — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 59.1Word-by-word available

एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।।5.59.1।।

Meaning

Shloka 59.2Word-by-word available

सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः । शीलमासाद्य सीताया मम च प्रवणं मनः ।।5.59.2।।

Meaning

Shloka 59.3Word-by-word available

तपसा धारयेल्लोकान्क्रुद्धो वा निर्दहेदपि । सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ।।5.59.3।।

Meaning

Shloka 59.4Word-by-word available

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् । न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ।।5.59.4।।

Meaning

Shloka 59.5Word-by-word available

जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता । जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाहरीन् ।।5.59.5।।

Meaning

Shloka 59.6Word-by-word available

अस्मिन्नेवंगते कार्ये भवतां च निवेदिते । न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।।5.59.6।।

Meaning

Shloka 59.7Word-by-word available

अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् । तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ।।5.59.7।।

Meaning

Shloka 59.8Word-by-word available

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।।5.59.8।।

Meaning

Shloka 59.9Word-by-word available

अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।।5.59.9।।

Meaning

Shloka 59.10Word-by-word available

ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा । यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे ।।5.59.10।।

Meaning