Sarga 10: The Sight of Mandodarī
मन्दोदरीदर्शनम्
mandodarīdarśanam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान् ददर्श शयनासनम् ।।5.10.1।।
Meaning
दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः । महार्हास्तरणोपेतैरुपपन्नं महाधनैः ।।5.10.2।।
Meaning
तस्य चैकतमे देशे सोऽग्र्यमालाविभूषितम् । ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभम् ।।5.10.3।।
Meaning
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् । अशोकमालाविततं ददर्श परमासनम् ।।5.10.4।।
Meaning
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः । गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ।।5.10.5।।
Meaning
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ।।5.10.6।।
Meaning
तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससम् ।।5.10.7।।
Meaning
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना । सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम् ।।5.10.8।।
Meaning
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ।।5.10.9।।
Meaning
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ।।5.10.10।।
Meaning