Sarga 20: Rāvaṇa's Entreaty

प्रणयप्रार्थना

praṇayaprārthanā — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 20.1Word-by-word available

स तां पतिव्रतां दीनां निरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ।।5.20.1।।

Meaning

Shloka 20.2Word-by-word available

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ।।5.20.2।।

Meaning

Shloka 20.3Word-by-word available

कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ।।5.20.3।।

Meaning

Shloka 20.4Word-by-word available

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः । व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ।।5.20.4।।

Meaning

Shloka 20.5Word-by-word available

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ।।5.20.5।।

Meaning

Shloka 20.6Word-by-word available

एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ।।5.20.6।।

Meaning

Shloka 20.7Word-by-word available

देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ।।5.20.7।।

Meaning

Shloka 20.8Word-by-word available

एकवेणी धराशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ।।5.20.8।।

Meaning

Shloka 20.9Word-by-word available

विचित्राणि च माल्यानि चन्दनान्यगरूणि च । विविधानि च वासांसि दिव्यान्याभरणानि च ।।5.20.9।।

Meaning

Shloka 20.10Word-by-word available

महार्हाणि च पानानि शयनान्यासनानि च । गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ।।5.20.10।।

Meaning