Sarga 13: Hanumān's Despondency
हनूमन्निर्वेदः
hanūmannirvedaḥ — word-by-word gloss for all 69 shlokas.
Jump to a shloka · 69 in this sarga
विमानात्तु सुसङ्क्रम्य प्राकारं हरिपुङ्गवः । हनुमान्वेगवानासीद्यथा विद्युद्घनान्तरे ।।5.13.1।।
Meaning
सम्परिक्रम्य हनुमान्रावणस्य निवेशनात् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ।।5.13.2।।
Meaning
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ।।5.13.3।।
Meaning
पल्वलानि तटाकानि सरांसि सरितस्तथा । नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।।5.13.4।।
Meaning
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् । इह सम्पातिना सीता रावणस्य निवेशने ।।5.13.5।।
Meaning
आख्याता गृध्रराजेन न च पश्यामि तामहम् । किं नु सीताथ वैदेही मैथिली जनकात्मजा ।।5.13.6।।
Meaning
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् । क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ।।5.13.7।।
Meaning
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् । अथवा ह्रियमाणायाः पथि सिद्धनिषेविते ।।5.13.8।।
Meaning
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् । रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।।5.13.9।।
Meaning
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया । उपर्युपरि वा नूनं सागरं क्रमतस्तदा ।।5.13.10।।
Meaning