Sarga 29: Auspicious Omens

शुभनिमित्तानि

śubhanimittāni — word-by-word gloss for all 8 shlokas.

Page 1 of 18 shlokas in this sarga (verified max-across-sources)
Shloka 29.1Word-by-word available

तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।।5.29.1।।

Meaning

Shloka 29.2Word-by-word available

तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ।।5.29.2।।

Meaning

Shloka 29.3Word-by-word available

भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः । अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ।।5.29.3।।

Meaning

Shloka 29.4Word-by-word available

गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः । प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ।।5.29.4।।

Meaning

Shloka 29.5Word-by-word available

शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः । वासः स्थितायाः शिखराग्रदत्याः किञ्चित्परिस्रंसत चारुगात्र्याः ।।5.29.5।।

Meaning

Shloka 29.6Word-by-word available

एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधु सिद्धैः । वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ।।5.29.6।।

Meaning

Shloka 29.7Word-by-word available

तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म । वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ।।5.29.7।।

Meaning

Shloka 29.8Word-by-word available

सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ।।5.29.8।।

Meaning