Sarga 23: The Rākṣasīs Urge Sītā
राक्षसीप्ररोचनम्
rākṣasīprarocanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।।5.23.1।।
Meaning
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।।5.23.2।।
Meaning
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः । परं परुषया वाचा वैदेहीमिदमब्रुवन् ।।5.23.3।।
Meaning
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।।5.23.4।।
Meaning
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।।5.23.5।।
Meaning
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः । मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।।5.23.6।।
Meaning
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः । नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।।5.23.7।।
Meaning
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।।5.23.8।।
Meaning
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।।5.23.9।।
Meaning
विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा । येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः ।।5.23.10।।
Meaning