Sarga 58: Hanumān Recounts His Journey
हनूमद्वृत्तानुकथनम्
hanūmadvṛttānukathanam — word-by-word gloss for all 167 shlokas.
Jump to a shloka · 167 in this sarga
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।।5.58.1।।
Meaning
तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् । जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ।।5.58.2।।
Meaning
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते । तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ।।5.58.3।।
Meaning
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे । श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।।5.58.4।।
Meaning
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ।।5.58.5।।
Meaning
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः । प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।।5.58.6।।
Meaning
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः । उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ।।5.58.7।।
Meaning
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।।5.58.8।।
Meaning
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् । उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।।5.58.9।।
Meaning
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च । प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ।।5.58.10।।
Meaning