Sarga 22: The Two-Month Deadline

मासद्वयावधिकरणम्

māsadvayāvadhikaraṇam — word-by-word gloss for all 46 shlokas.

Page 1 of 546 shlokas in this sarga (verified max-across-sources)
Shloka 22.1Word-by-word available

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।।5.22.1।।

Meaning

Shloka 22.2Word-by-word available

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।।5.22.2।।

Meaning

Shloka 22.3Word-by-word available

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ।।5.22.3।।

Meaning

Shloka 22.4Word-by-word available

वामः कामो मनुष्याणां यस्मिन्किल निबध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।।5.22.4।।

Meaning

Shloka 22.5Word-by-word available

एतस्मात्कारणान्न त्वां घातयामि वरानने । वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ।।5.22.5।।

Meaning

Shloka 22.6Word-by-word available

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ।।5.22.6।।

Meaning

Shloka 22.7Word-by-word available

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः । क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।।5.22.7।।

Meaning

Shloka 22.8Word-by-word available

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ।।5.22.8।।

Meaning

Shloka 22.9Word-by-word available

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थमालभन्ते महानसे ।।5.22.9।।

Meaning

Shloka 22.10Word-by-word available

तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ।।5.22.10।।

Meaning