Sarga 18: Rāvaṇa Arrives
रावणागमनम्
rāvaṇāgamanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत् ।।5.18.1।।
Meaning
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ।।5.18.2।।
Meaning
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ।।5.18.3।।
Meaning
विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान् । स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ।।5.18.4।।
Meaning
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।।5.18.5।।
Meaning
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ।।5.18.6।।
Meaning
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ।।5.18.7।।
Meaning
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः । वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ।।5.18.8।।
Meaning
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ।।5.18.9।।
Meaning
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् । महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ।।5.18.10।।
Meaning