Sarga 45: The Ministers' Sons Slain

अमात्यपुत्रवधः

amātyaputravadhaḥ — word-by-word gloss for all 17 shlokas.

Jump to a shloka · 17 in this sarga

Page 1 of 217 shlokas in this sarga (verified max-across-sources)
Shloka 45.1Word-by-word available

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणां सुताः । निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ।।5.45.1।।

Meaning

Shloka 45.2Word-by-word available

महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।।5.45.2।।

Meaning

Shloka 45.3Word-by-word available

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।।5.45.3।।

Meaning

Shloka 45.4Word-by-word available

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । विस्फारयन्तः संहृष्टास्तटित्वन्त इवाम्बुदाः ।।5.45.4।।

Meaning

Shloka 45.5Word-by-word available

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान्हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।।5.45.5।।

Meaning

Shloka 45.6Word-by-word available

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः । अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।।5.45.6।।

Meaning

Shloka 45.7Word-by-word available

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृताम्बुदाः ।।5.45.7।।

Meaning

Shloka 45.8Word-by-word available

अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः । अभवत्संवृताकारः शैलराडिव वृष्टिभिः ।।5.45.8।।

Meaning

Shloka 45.9Word-by-word available

स शरान्मोघयामास तेषामाशुचरः कपिः । रथवेगं च वीराणां विचरन्विमलेऽम्बरे ।।5.45.9।।

Meaning

Shloka 45.10Word-by-word available

स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।।5.45.10।।

Meaning