Sarga 56: The Joyful Leap Homeward
प्रीतिप्रयाणोत्पतनम्
prītiprayāṇotpatanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।।5.56.1।।
Meaning
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ।।5.56.2।।
Meaning
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।।5.56.3।।
Meaning
शरैः सुसङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।।5.56.4।।
Meaning
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ।।5.56.5।।
Meaning
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।।5.56.6।।
Meaning
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।।5.56.7।।
Meaning
एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः । गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।।5.56.8।।
Meaning
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः । आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।।5.56.9।।
Meaning
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः । सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ।।5.56.10।।
Meaning