Sarga 24: The Rākṣasīs' Threats
राक्षसीनिर्भर्त्सनम्
rākṣasīnirbhartsanam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ।।5.24.1।।
Meaning
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ।।5.24.2।।
Meaning
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।।5.24.3।।
Meaning
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ।।5.24.4।।
Meaning
मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद्भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते ।।5.24.5।।
Meaning
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।।5.24.6।।
Meaning
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ।।5.24.7।।
Meaning
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ।।5.24.8।।
Meaning
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः । तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ।।5.24.9।।
Meaning
यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।।5.24.10।।
Meaning