Sarga 62: Dadhimukha Humbled

दधिमुखखिलीकारः

dadhimukhakhilīkāraḥ — word-by-word gloss for all 40 shlokas.

Page 1 of 440 shlokas in this sarga (verified max-across-sources)
Shloka 62.1Word-by-word available

तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः । अव्यग्रमनसो यूयं मधु सेवत वानराः ।।5.62.1।।

Meaning

Shloka 62.2Word-by-word available

अहमावारयिष्यामि युष्माकं परिपन्थिनः । श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ।।5.62.2।।

Meaning

Shloka 62.3Word-by-word available

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु । अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।।5.62.3।।

Meaning

Shloka 62.4Word-by-word available

अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् । अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।।5.62.4।।

Meaning

Shloka 62.5Word-by-word available

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् । पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ।।5.62.5।।

Meaning

Shloka 62.6Word-by-word available

जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् । ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।।5.62.6।।

Meaning

Shloka 62.7Word-by-word available

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत्फलमाददुः ।।5.62.7।।

Meaning

Shloka 62.8Word-by-word available

उत्पत्य च ततः सर्वे वनपालान्समागतान् । ताडयन्ति स्म शतशः सक्तान्मधुवने तदा ।।5.62.8।।

Meaning

Shloka 62.9Word-by-word available

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते । पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथापरे ।।5.62.9।।

Meaning

Shloka 62.10Word-by-word available

केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः । मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।।5.62.10।।

Meaning