Sarga 6: Viewing Rāvaṇa's Palace
रावणगृहावेक्षणम्
rāvaṇagṛhāvekṣaṇam — word-by-word gloss for all 44 shlokas.
Jump to a shloka · 44 in this sarga
स निकामं विमानेषु विषण्णः कामरूपधृत् । विचचार पुनर्लङ्कां लाघवेन समन्वितः ।।5.6.1।।
Meaning
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।।5.6.2।।
Meaning
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।।5.6.3।।
Meaning
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः । विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ।।5.6.4।।
Meaning
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः । उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ।।5.6.5।।
Meaning
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः । घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।।5.6.6।।
Meaning
बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् । महारथसमावासं महारथमहास्वनम् ।।5.6.7।।
Meaning
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ।।5.6.8।।
Meaning
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ।।5.6.9।।
Meaning
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् । वराभरणसंह्रादैः समुद्रस्वननिःस्वनम् ।।5.6.10।।
Meaning