Sarga 60: Aṅgada and Jāmbavān Confer

अङ्गदजाम्बवत्संवादः

aṅgadajāmbavatsaṃvādaḥ — word-by-word gloss for all 6 shlokas.

Page 1 of 16 shlokas in this sarga (verified max-across-sources)
Shloka 60.1Word-by-word available

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत । अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः । समीपं गन्तुमस्माभी राघवस्य महात्मनः ।।5.60.1।।

Meaning

Shloka 60.2Word-by-word available

दृष्टा देवी न चानीता इति तत्र निवेदनम् । अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।।5.60.2।।

Meaning

Shloka 60.3Word-by-word available

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे । तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।।5.60.3।।

Meaning

Shloka 60.4Word-by-word available

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता । किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।।5.60.4।।

Meaning

Shloka 60.5Word-by-word available

तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः । उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।।5.60.5।।

Meaning

Shloka 60.6Word-by-word available

न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र । यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ।।5.60.6।।

Meaning