Sarga 43: The Temple-Palace Burned

चैत्यप्रासाददाहः

caityaprāsādadāhaḥ — word-by-word gloss for all 25 shlokas.

Jump to a shloka · 25 in this sarga

Page 1 of 325 shlokas in this sarga (verified max-across-sources)
Shloka 43.1Word-by-word available

ततः स किङ्करान्हत्वा हनुमान् ध्यानमास्थितः । वनं भग्नं मया चैत्यप्रासादो न विनाशितः ।।5.43.1।।

Meaning

Shloka 43.2Word-by-word available

तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् । इति सञ्चिन्त्य मनसा हनुमान्दर्शयन्बलम् ।।5.43.2।।

Meaning

Shloka 43.3Word-by-word available

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान्मारुतात्मजः ।।5.43.3।।

Meaning

Shloka 43.4Word-by-word available

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।।5.43.4।।

Meaning

Shloka 43.5Word-by-word available

सम्प्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् । हनुमान्प्रज्वलंल्लक्ष्म्या पारियात्रोपमोऽभवत् ।।5.43.5।।

Meaning

Shloka 43.6Word-by-word available

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।।5.43.6।।

Meaning

Shloka 43.7Word-by-word available

तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।।5.43.7।।

Meaning

Shloka 43.8Word-by-word available

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ।।5.43.8।।

Meaning

Shloka 43.9Word-by-word available

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।।5.43.9।।

Meaning

Shloka 43.10Word-by-word available

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।।5.43.10।।

Meaning