Sarga 4: Entering the City of Laṅkā
लङ्कापुरीप्रवेशः
laṅkāpurīpraveśaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान्कपिसत्तमः ।।5.4.1।।
Meaning
अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे । निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः ।।5.4.2।।
Meaning
प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः । चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।।5.4.3।।
Meaning
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः । स महापथमास्थाय मुक्तापुष्पविराजितम् । ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ।।5.4.4।।
Meaning
हसितोत्कृष्टनिनदैस्तूर्यघोषपुरःसरैः । वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः । गृहमुख्यैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ।।5.4.5।।
Meaning
प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः । सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।।5.4.6।।
Meaning
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता । तां चित्रमाल्याभरणां कपिराजहितङ्करः ।।5.4.7।।
Meaning
राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च । भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ।।5.4.8।।
Meaning
विविधाकृतिरूपाणि भवनानि ततस्ततः । शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।।5.4.9।।
Meaning
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव । शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम् ।।5.4.10।।
Meaning