Sarga 34: Sītā's Suspicion Removed
रावणशङ्कानिवारणम्
rāvaṇaśaṅkānivāraṇam — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः । दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।।5.34.1।।
Meaning
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।।5.34.2।।
Meaning
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः । स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।।5.34.3।।
Meaning
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । कृतवान् शोकसन्तप्तः शिरसा तेऽभिवादनम् ।।5.34.4।।
Meaning
सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।।5.34.5।।
Meaning
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा । एति जीवन्तमानन्दो नरं वर्षशतादपि ।।5.34.6।।
Meaning
तया समागते तस्मिन्प्रीतिरुत्पादिताद्भुता । परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।।5.34.7।।
Meaning
तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः । सीतायाः शोकदीनायाः समीपमुपचक्रमे ।।5.34.8।।
Meaning
यथा यथा समीपं स हनुमानुपसर्पति । तथा तथा रावणं सा तं सीता परिशङ्कते ।।5.34.9।।
Meaning
अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे । रूपान्तरमुपागम्य स एवायं हि रावणः ।।5.34.10।।
Meaning