Sarga 37: Why Sītā Will Not Be Carried Back
सीताप्रत्यानयनानौचित्यम्
sītāpratyānayanānaucityam — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।।5.37.1।।
Meaning
अमृतं विषसंसृष्टं त्वया वानर भाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ।।5.37.2।।
Meaning
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।।5.37.3।।
Meaning
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।।5.37.4।।
Meaning
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।।5.37.5।।
Meaning
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।।5.37.6।।
Meaning
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।।5.37.7।।
Meaning
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ।।5.37.8।।
Meaning
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ।।5.37.9।।
Meaning
मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।।5.37.10।।
Meaning