Sarga 39: Hanumān's Message
हनूमत्सन्देशः
hanūmatsandeśaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।।5.39.1।।
Meaning
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ।।5.39.2।।
Meaning
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम । अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।।5.39.3।।
Meaning
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम । हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ।।5.39.4।।
Meaning
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् । स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।।5.39.5।।
Meaning
शिरसावन्द्य वैदेहीं गमनायोपचक्रमे । ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् ।।5.39.6।।
Meaning
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् । कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ।।5.39.7।।
Meaning
सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् । ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।।5.39.8।।
Meaning
यथा स च महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।।5.39.9।।
Meaning
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत्तथा हनुमन्वाच्यो वाचा धर्ममवाप्नुहि ।।5.39.10।।
Meaning