Sarga 39: Hanumān's Message
हनूमत्सन्देशः
hanūmatsandeśaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः । वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।।5.39.11।।
Meaning
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमविधिं वीरो विधिवत्संविधास्यति ।।5.39.12।।
Meaning
सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।।5.39.13।।
Meaning
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।।5.39.14।।
Meaning
न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा । यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः ।।5.39.15।।
Meaning
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् । स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।।5.39.16।।
Meaning
स हि सागरपर्यन्तां महीं शासितुमीहते । त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।।5.39.17।।
Meaning
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् । जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ।।5.39.18।।
Meaning
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।।5.39.19।।
Meaning
यदि वा मन्यसे वीर वसैकाहमरिन्दम । कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।।5.39.20।।
Meaning