Sarga 44: Jambumālī Slain
जम्बुमालिवधः
jambumālivadhaḥ — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।।5.44.1।।
Meaning
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान्विवृत्तनयनश्चण्डः समरदुर्जयः ।।5.44.2।।
Meaning
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ।।5.44.3।।
Meaning
तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चैव सहसा समपूर्यत ।।5.44.4।।
Meaning
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान्वेगसम्पन्नो जहर्ष च ननाद च ।।5.44.5।।
Meaning
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।।5.44.6।।
Meaning
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।।5.44.7।।
Meaning
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।।5.44.8।।
Meaning
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।।5.44.9।।
Meaning
चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ।।5.44.10।।
Meaning