Sarga 21: Rāvaṇa Held as Straw
रावणतृणीकरणम्
rāvaṇatṛṇīkaraṇam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।।5.21.1।।
Meaning
दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।।5.21.2।।
Meaning
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।।5.21.3।।
Meaning
न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् । अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।।5.21.4।।
Meaning
कुलं सम्प्राप्तया पुण्यं कुले महति जातया । एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।।5.21.5।।
Meaning
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् । नाहमौपयिकी भार्या परभार्या सती तव ।।5.21.6।।
Meaning
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर । यथा तव तथान्येषां दारा रक्ष्या निशाचर ।।5.21.7।।
Meaning
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।।5.21.8।।
Meaning
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् । इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।।5.21.9।।
Meaning
तथा हि विपरीता ते बुद्धिराचारवर्जिता । वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।।5.21.10।।
Meaning