Sarga 61: Entering the Madhuvana

मधुवनप्रवेशः

madhuvanapraveśaḥ — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 1 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 61.1Word-by-word available

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।।5.61.1।।

Meaning

Shloka 61.2Word-by-word available

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः । महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।।5.61.2।।

Meaning

Shloka 61.3Word-by-word available

मेरुमन्दरसङ्काशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ।।5.61.3।।

Meaning

Shloka 61.4Word-by-word available

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनुमन्तं महावेगं वहन्त इव दृष्टिभिः ।।5.61.4।।

Meaning

Shloka 61.5Word-by-word available

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।।5.61.5।।

Meaning

Shloka 61.6Word-by-word available

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः । सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।।5.61.6।।

Meaning

Shloka 61.7Word-by-word available

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः । नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।।5.61.7।।

Meaning

Shloka 61.8Word-by-word available

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।।5.61.8।।

Meaning

Shloka 61.9Word-by-word available

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः । मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।।5.61.9।।

Meaning

Shloka 61.10Word-by-word available

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ।।5.61.10।।

Meaning