Sarga 9: The Crowded Inner Palace
सङ्कुलान्तःपुरम्
saṅkulāntaḥpuram — word-by-word gloss for all 74 shlokas.
Jump to a shloka · 74 in this sarga
तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् । ददर्श भवनश्रेष्ठं हनुमान्मारुतात्मजः ।।5.9.1।।
Meaning
अर्धयोजनविस्तीर्णमायतं योजनं हि तत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ।।5.9.2।।
Meaning
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् । सर्वतः परिचक्राम हनुमानरिसूदनः ।।5.9.3।।
Meaning
उत्तमं राक्षसावासं हनुमानवलोकयन् । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।।5.9.4।।
Meaning
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च । परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः ।।5.9.5।।
Meaning
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् । आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ।।5.9.6।।
Meaning
तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् । वायुवेगसमाधूतं पन्नगैरिव सागरम् ।।5.9.7।।
Meaning
या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने । सा रावणगृहे सर्वा नित्यमेवानपायिनी ।।5.9.8।।
Meaning
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ।।5.9.9।।
Meaning
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् । बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः ।।5.9.10।।
Meaning