Sarga 48: Indrajit's Attack
इन्द्रजिदभियोगः
indrajidabhiyogaḥ — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
ततः स रक्षोऽधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे । मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषात् ।।5.48.1।।
Meaning
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः ।।5.48.2।।
Meaning
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः । न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।।5.48.3।।
Meaning
न कश्चित्त्रिषु लोकेषु संयुगे नगतश्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।।5.48.4।।
Meaning
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे । न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ।।5.48.5।।
Meaning
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे । न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।।5.48.6।।
Meaning
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।।5.48.7।।
Meaning
बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः । न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।।5.48.8।।
Meaning
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।।5.48.9।।
Meaning
बलावमर्दस्त्वयि सन्निकृष्टे यथागते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।।5.48.10।।
Meaning