Sarga 16: Hanumān's Lament
हनूमत्परीतापः
hanūmatparītāpaḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः । गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ।।5.16.1।।
Meaning
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः । सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह ।।5.16.2।।
Meaning
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया । यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ।।5.16.3।।
Meaning
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः । नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ।।5.16.4।।
Meaning
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ।।5.16.5।।
Meaning
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् । जगाम मनसा रामं वचनं चेदमब्रवीत् ।।5.16.6।।
Meaning
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः । रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ।।5.16.7।।
Meaning
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः । वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ।।5.16.8।।
Meaning
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः ।।5.16.9।।
Meaning
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः । दूषणश्च महातेजा रामेण विदितात्मना ।।5.16.10।।
Meaning