Sarga 67: Sītā's Words Repeated

सीताभाषितानुवचनम्

sītābhāṣitānuvacanam — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 67.1Word-by-word available

एवमुक्तस्तु हनुमान्राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ।।5.67.1।।

Meaning

Shloka 67.2Word-by-word available

इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।।5.67.2।।

Meaning

Shloka 67.3Word-by-word available

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विददार स्तनान्तरे ।।5.67.3।।

Meaning

Shloka 67.4Word-by-word available

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज । पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।।5.67.4।।

Meaning

Shloka 67.5Word-by-word available

पुनः पुनरुपागम्य विरराद भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।।5.67.5।।

Meaning

Shloka 67.6Word-by-word available

वायसेन च तेनैव सततं बाध्यमानया । बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।।5.67.6।।

Meaning

Shloka 67.7Word-by-word available

तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे । आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।।5.67.7।।

Meaning

Shloka 67.8Word-by-word available

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।।5.67.8।।

Meaning

Shloka 67.9Word-by-word available

निरीक्षमाणः सहसा वायसं समवैक्षथाः । नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।।5.67.9।।

Meaning

Shloka 67.10Word-by-word available

सुतः किल स शक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।।5.67.10।।

Meaning