Sarga 47: Prince Akṣa Slain
अक्षकुमारवधः
akṣakumāravadhaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान् । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।।5.47.1।।
Meaning
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।।5.47.2।।
Meaning
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम् । रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः ।।5.47.3।।
Meaning
ततस्तपः सङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ।।5.47.4।।
Meaning
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।।5.47.5।।
Meaning
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा । दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।।5.47.6।।
Meaning
स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः । बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् ।।5.47.7।।
Meaning
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मितजातसम्भ्रमः समैक्षताक्षो बहुमानचक्षुषा ।।5.47.8।।
Meaning
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः । विचारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ।।5.47.9।।
Meaning
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।।5.47.10।।
Meaning