Sarga 66: Rāma Asks What Sītā Said

सीताभाषितप्रश्नः

sītābhāṣitapraśnaḥ — word-by-word gloss for all 15 shlokas.

Jump to a shloka · 15 in this sarga

Page 1 of 215 shlokas in this sarga (verified max-across-sources)
Shloka 66.1Word-by-word available

एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।।5.66.1।।

Meaning

Shloka 66.2Word-by-word available

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।।5.66.2।।

Meaning

Shloka 66.3Word-by-word available

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला । तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।।5.66.3।।

Meaning

Shloka 66.4Word-by-word available

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ।।5.66.4।।

Meaning

Shloka 66.5Word-by-word available

अयं हि जलसम्भूतो मणिः सज्जनपूजितः । यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।।5.66.5।।

Meaning

Shloka 66.6Word-by-word available

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।।5.66.6।।

Meaning

Shloka 66.7Word-by-word available

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।।5.66.7।।

Meaning

Shloka 66.8Word-by-word available

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः । पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ।।5.66.8।।

Meaning

Shloka 66.9Word-by-word available

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।।5.66.9।।

Meaning

Shloka 66.10Word-by-word available

चिरं जीवति वैदेही यदि मासं धरिष्यति । न जीवेयं क्षणमपि विना तामसितेक्षणाम् ।।5.66.10।।

Meaning