Sarga 11: Searching the Drinking Hall
पानभूमिविचयः
pānabhūmivicayaḥ — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ।।5.11.1।।
Meaning
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी । न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ।।5.11.2।।
Meaning
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् । न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ।।5.11.3।।
Meaning
अन्येयमिति निश्चित्य पानभूमौ चचार सः । क्रीडितेनापराः क्लान्ता गीतेन च तथापराः ।।5.11.4।।
Meaning
नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा । मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ।।5.11.5।।
Meaning
तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः । अङ्गनानां सहस्रेण भूषितेन विभूषणैः ।।5.11.6।।
Meaning
रूपसंल्लापशीलेन युक्तगीतार्थभाषिणा । देशकालाभियुक्तेन युक्तवाक्याभिधायिना ।।5.11.7।।
Meaning
रताभिरतसंसुप्तं ददर्श हरियूथपः । तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ।।5.11.8।।
Meaning
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः । स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ।।5.11.9।।
Meaning
करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः । सर्वकामैरुपेतां च पानभूमिं महात्मनः ।।5.11.10।।
Meaning