Sarga 17: Sītā among the Rākṣasīs
राक्षसीपरिवारः
rākṣasīparivāraḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।।5.17.1।।
Meaning
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ।।5.17.2।।
Meaning
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।।5.17.3।।
Meaning
दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः । स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।।5.17.4।।
Meaning
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ।।5.17.5।।
Meaning
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ।।5.17.6।।
Meaning
लम्बकर्णललाटां च लम्बोदरपयोधराम् । लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ।।5.17.7।।
Meaning
ह्रस्वदीर्घां तथा कुब्जां विकटां वामनां तथा । करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ।।5.17.8।।
Meaning
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गरधारिणीः ।।5.17.9।।
Meaning
वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ।।5.17.10।।
Meaning