Sarga 53: The Fire Turns Cool

पावकशैत्यम्

pāvakaśaityam — word-by-word gloss for all 44 shlokas.

Page 1 of 544 shlokas in this sarga (verified max-across-sources)
Shloka 53.1Word-by-word available

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।।5.53.1।।

Meaning

Shloka 53.2Word-by-word available

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।।5.53.2।।

Meaning

Shloka 53.3Word-by-word available

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।।5.53.3।।

Meaning

Shloka 53.4Word-by-word available

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् । समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।।5.53.4।।

Meaning

Shloka 53.5Word-by-word available

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।।5.53.5।।

Meaning

Shloka 53.6Word-by-word available

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।।5.53.6।।

Meaning

Shloka 53.7Word-by-word available

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।।5.53.7।।

Meaning

Shloka 53.8Word-by-word available

तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् । लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।।5.53.8।।

Meaning

Shloka 53.9Word-by-word available

स तु रोषपरीतात्मा बालसूर्यसमाननः । लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।।5.53.9।।

Meaning

Shloka 53.10Word-by-word available

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः । स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।।5.53.10।।

Meaning